श्रीगणेशपश्चरत्नस्तोत्रम्

श्रीगणेशाय नम: ।

मुद्रा करात्तमोदकं सदा विमुक्तिसाधकम् । कलाधरारावतंसकं विलासिलोकरञ्ञकम् । अनायकैकनायकं विनाशितेभदैत्यकम् । नताशुभानाशकं नमामि तं विनायकम् ।।१।।

नतेतरातिभीकरं नवोदितार्कभास्वरम् । नमत्सुरारिनिर्जरं नताधिकापदुद्धरम् ।। सुरेश्वरं निधीश्वरं गजेश्वर गणेश्वरम् । महेश्वरं तमाश्रये परात्परं निरंतरम् ।।२।।

समस्तलोकशंकरम् निरस्तदैत्यकुंजरम् । दरेतरोदरं वरं वरेभवक्त्रमक्षरम् ।। कृपाकरं क्षमाकरं मुदाकरं यशस्करम् । मनस्करं नमस्कृतां समस्कोरोमि भास्वरम् ।।३।।

अकिंचनार्तिमार्जनं चिरंतनोक्तिभाजनं । पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम् ।। प्रपञ्चनाशभीषणं धनं जयादिभूषणम् । कपोलदानवारणं भजे पुराणवारणम् ।।४।।

नितांत-कान्त-दन्त-कान्तिमन्तकात्मजम् । अचिंत्यरूपमन्तहीनमन्तरायकृन्तनम् ।। हृदन्तरे निरन्तरं वसंतमेव योगिनाम् । तमेकदन्तमेव तं विचिन्तयामि संततम् ।।५।।

महागणेशपञ्चरत्नमादरेण योऽन्वहम् । प्रगायति प्रभातके हृदि स्मरन् गणेशश्वरम् ।। अरोगतामदोषतां सुसाहितीं सुपुत्राताम् । समहितायुरष्टभूतिमभ्युपैति सोऽचिरात् ।।६।।